ॐ श्रीपरमात्मने नमः
अथ प्रथमोऽध्यायः
प्रथमोऽध्यायः १-३
धृतराष्ट्र उवाच
धर्मक्षत्रे कुरुक्षत्रे, समवेता युयुत्सवः ।
मामकाः(≍) पाण्डवाश्चैव, किमकुर्वत सञ्जय ।। (१-१)

सञ्जय उवाच
दृष्ट्वा तु पाण्डवानीकं(म्), व्यूढं(न्) दुर्योधनस्तदा।
आचार्यमुपसङ्गम्य, राजा वचनमब्रवीत्।। (१-२)

पश्यैतां पाण्डुपुत्राणां(म्), आचार्य महतीं(ञ्) चमूम्।
व्यूढां(न्) द्रुपदपुत्रेण, तव शिष्येण धीमता।। (१-३)

प्रथमोऽध्यायः ४-८
अत्र शूरा महेष्वासा(:), भीमार्जुनसमा युधि।
युयुधानो विराटश्च, द्रुपदश्च महारथः।। (१-४)

धृष्टकेतुश्चेकितानः, काशिराजश्च वीर्यवान्।
पुरुजित्कुन्तिभोजश्च, शैब्यश्च नरपुङ्गवः।। (१-५)

युधामन्युश्च विक्रान्त(:), उत्तमौजाश्च वीर्यवान्।
सौभद्रो द्रौपदेयाश्च, सर्व एव महारथाः।। (१-६)

अस्माकं(न्) तु विशिष्टा ये, तान्निबोध द्विजोत्तम।
नायका मम सैन्यस्य, संज्ञार्थं(न्) तान्ब्रवीमि ते।। (१-७)

भवान्भीष्मश्च कर्णश्च, कृपश्च समितिञ्जयः।
अश्वत्थामा विकर्णश्च, सौमदत्तिस्तथैव च।। (१-८)

प्रथमोऽध्यायः ९-१३
अन्ये च बहवः(श्) शूरा(:), मदर्थे त्यक्तजीविताः।
नानाशस्त्रप्रहरणाः, सर्वे युद्धविशारदाः।। (१-९)

अपर्याप्तं(न्) तदस्माकं(म्), बलं भीष्माभिरक्षितम्।
पर्याप्तं(न्) त्विदमेतेषां(म्), बलं भीमाभिरक्षितम्।। (१-१०)

अयनेषु च सर्वेषु, यथाभागमवस्थिताः।
भीष्ममेवाभिरक्षन्तु, भवन्तः(स्) सर्व एव हि।। (१-११)

तस्य संजनयन्हर्षं(म्), कुरुवृद्धः(≍) पितामहः।
सिंहनादं(व्ँ) विनद्योच्चैः, शङ्खं(न्) दध्मौ प्रतापवान्।। (१-१२)

ततः(श्) शङ्खाश्च भेर्यश्च, पणवानकगोमुखाः।
सहसैवाभ्यहन्यन्त, स शब्दस्तुमुलोऽभवत्।। (१-१३)

प्रथमोऽध्यायः १४-१८
ततः(श्) श्वेतैर्हयैर्युक्ते, महति स्यन्दने स्थितौ।
माधवः(≍) पाण्डवश्चैव, दिव्यौ शङ्खौ प्रदध्मतुः।। (१-१४)

पाञ्चजन्यं हृषीकेशो(:), देवदत्तं(न्) धनंजयः।
पौण्ड्रं(न्) दध्मौ महाशङ्खं(म्), भीमकर्मा वृकोदरः।। (१-१५)

अनन्तविजयं राजा, कुन्तीपुत्रो युधिष्ठिरः।
नकुलः(स्) सहदेवश्च, सुघोषमणिपुष्पकौ।। (१-१६)

काश्यश्च परमेष्वासः, शिखण्डी च महारथः।
धृष्टद्युम्नो विराटश्च, सात्यकिश्चापराजितः।। (१-१७)

द्रुपदो द्रौपदेयाश्च, सर्वशः(≍) पृथिवीपते।
सौभद्रश्च महाबाहुः, शङ्खान्दध्मुः(≍) पृथक्पृथक्।। (१-१८)

प्रथमोऽध्यायः १९-२३
स घोषो धार्तराष्ट्राणां(म्), हृदयानि व्यदारयत्।
नभश्च पृथिवीं(ञ्) चैव, तुमुलो व्यनुनादयन्।। (१-१९)

अथ व्यवस्थितान् दृष्ट्वा, धार्तराष्ट्रान्कपिध्वजः।
प्रवृत्ते शस्त्रसंपाते, धनुरुद्यम्य पाण्डवः।। (१-२०)

हृषीकेशं तदा वाक्यम्, इदमाह महीपते।
अर्जुन उवाच
सेनयोरुभयोर्मध्ये, रथं स्थापय मेऽच्युत।। (१-२१)
यावदेतान्निरीक्षेऽहं(म्), योद्धुकामानवस्थितान्।
कैर्मया सह योद्धव्यम्, अस्मिन्रणसमुद्यमे।। (१-२२)

योत्स्यमानानवेक्षेऽहं(म्), य एतेऽत्र समागताः।
धार्तराष्ट्रस्य दुर्बुद्धे:, युद्धे प्रियचिकीर्षवः।। (१-२३)

प्रथमोऽध्यायः २४-२७
संजय उवाच
एवमुक्तो हृषीकेशो(:), गुडाकेशेन भारत।
सेनयोरुभयोर्मध्ये, स्थापयित्वा रथोत्तमम्।। (१-२४)

भीष्मद्रोणप्रमुखतः, सर्वेषां(ञ्) च महीक्षिताम्।
उवाच पार्थ पश्यैतान्, समवेतान्कुरूनिति।। (१-२५)

तत्रापश्यत्स्थितान्पार्थः, पितॄनथ पितामहान्।
आचार्यान्मातुलान्भ्रातॄन्, पुत्रान्पौत्रान्सखींस्तथा।। (१-२६)

श्वशुरान्सुहृदश्चैव, सेनयोरुभयोरपि।
तान्समीक्ष्य स कौन्तेयः, सर्वान्बन्धूनवस्थितान्।। (१-२७)

प्रथमोऽध्यायः २८-३२
अर्जुन उवाच
कृपया परयाऽऽविष्टो(:), विषीदन्निदमब्रवीत्।
अर्जन उवाच
दृष्ट्वेमं स्वजनं कृष्ण, युयुत्सुं समुपस्थितम्।। (१-२८)
सीदन्ति मम गात्राणि, मुखं(ञ्) च परिशुष्यति।
वेपथुश्च शरीरे मे, रोमहर्षश्च जायते।। (१-२९)

गाण्डीवं स्रंसते हस्तात्, त्वक्चैव परिदह्यते।
न च शक्नोम्यवस्थातुं(म्), भ्रमतीव च मे मनः।। (१-३०)

निमित्तानि च पश्यामि, विपरीतानि केशव।
न च श्रेयोऽनुपश्यामि, हत्वा स्वजनमाहवे।। (१-३१)

न काङ्क्षे विजयं(ङ्) कृष्ण, न च राज्यं सुखानि च।
किं(न्) नो राज्येन गोविन्द, किं भोगैर्जीवितेन वा।। (१-३२)

प्रथमोऽध्यायः ३३-३७
येषामर्थे काङ्क्षितं नो(:), राज्यं भोगाः(स्) सुखानि च।
त इमेऽवस्थिता युद्धे, प्राणांस्त्यक्त्वा धनानि च।। (१-३३)

आचार्याः(≍) पितरः(≍) पुत्राः, तथैव च पितामहाः।
मातुलाः(श्) श्वशुराः(≍) पौत्राः, श्यालाः(स्) सम्बन्धिनस्तथा।। (१-३४)

एतान्न हन्तुमिच्छामि, घ्नतोऽपि मधुसूदन।
अपि त्रैलोक्यराज्यस्य, हेतोः(≍) किं(न्) नु महीकृते।।(१-३५)

निहत्य धार्तराष्ट्रान्नः, का प्रीतिः(स्) स्याज्जनार्दन।
पापमेवाश्रयेदस्मान्, हत्वैतानाततायिनः।। (१-३६)

तस्मान्नार्हा वयं हन्तुं(म्), धार्तराष्ट्रान्स्वबान्धवान्।
स्वजनं हि कथं हत्वा, सुखिनः(स्) स्याम माधव।। (१-३७)

प्रथमोऽध्यायः ३८-४१
यद्यप्येते न पश्यन्ति, लोभोपहतचेतसः।
कुलक्षयकृतं(न्) दोषं(म्), मित्रद्रोहे च पातकम्।। (१-३८)

कथं(न्) न ज्ञेयमस्माभिः, पापादस्मान्निवर्तितुम् ।
कुलक्षयकृतं(न्) दोषं(म्), प्रपश्यद्भिर्जनार्दन ।। (१-३९)

कुलक्षये प्रणश्यन्ति, कुलधर्माः(स्) सनातनाः।
धर्मे नष्टे कुलं(ङ्) कृत्स्नम्, अधर्मोऽभिभवत्युत।। (१-४०)

अधर्माभिभवात्कृष्ण, प्रदुष्यन्ति कुलस्त्रियः।
स्त्रीषु दुष्टासु वार्ष्णेय, जायते वर्णसङ्करः।। (१-४१)

प्रथमोऽध्यायः ४२-४७
सङ्करो नरकायैव, कुलघ्नानां(ङ्) कुलस्य च ।
पतन्ति पितरो ह्येषां(म्), लुप्तपिण्डोदकक्रियाः ।। (१-४२)

दोषैरेतैः(≍) कुलघ्नानां(म्), वर्णसङ्करकारकैः।
उत्साद्यन्ते जातिधर्माः, कुलधर्माश्च शाश्वताः।। (१-४३)

उत्सन्नकुलधर्माणां(म्), मनुष्याणां(ञ्) जनार्दन।
नरकेऽनियतं(व्ँ) वासो(:), भवतीत्यनुशुश्रुम।। (१-४४)

अहो बत महत्पापं(म्), कर्तुं(व्ँ) व्यवसिता वयम् ।
यद्राज्यसुखलोभेन, हन्तुं स्वजनमुद्यताः ।। (१-४५)

यदि मामप्रतीकारम्, अशस्त्रं शस्त्रपाणयः ।
धार्तराष्ट्रा रणे हन्युः, तन्मे क्षेमतरं भवेत् ।। (१-४६)
धार्तराष्ट्रा रणे हन्युः, तन्मे क्षेमतरं भवेत् ।। (१-४६)
सञ्जय उवाच
एवमुक्त्वाऽर्जुनः(स्) संख्ये, रथोपस्थ उपाविशत् ।
विसृज्य सशरं(ञ्) चापं(म्), शोकसंविग्नमानसः ।। (१-४७)