गीताध्यानश्लोकः १
पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयम् ।
व्यासेन ग्रथितां पुराणमुनिना मध्येमहाभारतम् ।।
अद्वैतामृतवर्षिणीं भगवतीम् अष्टादशाध्यायिनीम् ।
अम्ब त्वामनुसन्दधामि भगवद्गीते भवद्वेषिणीम् ।। (१)

गीताध्यानश्लोकः २
नमोऽस्तु ते व्यास विशालबुद्धे फुल्लारविन्दायतपत्रनेत्र ।
येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः ।। (२)

गीताध्यानश्लोकः ३
प्रपन्नपारिजाताय तोत्रवेत्रैकपाणये ।
ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः ।। (३)

गीताध्यानश्लोकः ४
सर्वोपनिषदो गावो(:) दोग्धा गोपालनन्दनः ।
पार्थो वत्सः(स्) सुधीर्भोक्ता दुग्धं(ङ्) गीतामृतं महत् ।। (४)

गीताध्यानश्लोकः ५
वसुदेवसुतं(न्) देवं(म्) कंसचानूरमर्दनम् ।
देवकीपरमानन्दं(म्) कृष्णं(व्ँ) वन्दे जगद्गुरुम् ।। (५)

गीताध्यानश्लोकः ६
भीष्मद्रोणतटा जयद्रथजला गान्धारनीलोत्पला ।
शल्यग्राहवती कृपेण वहनी कर्णेन वेलाकुला ।।
अश्वत्थामविकर्णघोरमकरा दुर्योधनावर्तिनी ।
सोत्तीर्णा खलु पाण्डवै रणनदी कैवर्तकः केशवः ।। (६)

गीताध्यानश्लोकः ७
पाराशर्यवचः(स्) सरोजममलं(म्) गीतार्थगन्धोत्कटम् ।
नानाख्यानककेसरं(म्) हरिकथासम्बोधनाबोधितम् ।।
लोके सज्जनषट्पदैरहरहः पेपीयमानं मुदा ।
भूयाद्भारतपङ्कजं(म्) कलिमलप्रध्वंसिनः(श्) श्रेयसे ।। (७)