ॐ श्रीपरमात्मने नमः
अथ द्वितीयोऽध्यायः
द्वितीयोऽध्यायः १-४
सञ्जय उवाच
तं(न्) तथा कृपयाऽविष्टम्, अश्रुपूर्णाकुलेक्षणम्।
विषीदन्तमिदं(वँ) वाक्यम्, उवाच मधुसूदनः।। (२-१)
विषीदन्तमिदं(वँ) वाक्यम्, उवाच मधुसूदनः।। (२-१)
श्री भगवानुवाच
कुतस्त्वा कश्मलमिदं(म्), विषमे समुपस्थितम्।
अनार्यजुष्टमस्वर्ग्यम्, अकीर्तिकरमर्जुन।। (२-२)
अनार्यजुष्टमस्वर्ग्यम्, अकीर्तिकरमर्जुन।। (२-२)
क्लैब्यं मा स्म गमः(≍), पार्थ नैतत्त्वय्युपपद्यते।
क्षुद्रं हृदयदौर्बल्यं(म्), त्यक्त्वोत्तिष्ठ परन्तप।। (२-३)
क्षुद्रं हृदयदौर्बल्यं(म्), त्यक्त्वोत्तिष्ठ परन्तप।। (२-३)
अर्जुन उवाच
कथं भीष्ममहं संख्ये, द्रोणं(ञ्) च मधुसूदन।
इषुभिः(≍) प्रतियोत्स्यामि, पूजार्हावरिसूदन।। (२-४)
इषुभिः(≍) प्रतियोत्स्यामि, पूजार्हावरिसूदन।। (२-४)
द्वितीयोऽध्यायः ५-७
गुरूनहत्वा हि महानुभावान्
श्रेयो भोक्तुं भैक्ष्यमपीह लोके ।
हत्वार्थकामांस्तु गुरूनिहैव
भुञ्जीय भोगान् रुधिरप्रदिग्धान् ।। (२-५)
श्रेयो भोक्तुं भैक्ष्यमपीह लोके ।
हत्वार्थकामांस्तु गुरूनिहैव
भुञ्जीय भोगान् रुधिरप्रदिग्धान् ।। (२-५)
न चैतद्विद्मः(≍) कतरन्नो गरीयो
यद्वा जयेम यदि वा नो जयेयुः ।
यानेव हत्वा न जिजीविषामः
तेऽवस्थिताः(≍) प्रमुखे धार्तराष्ट्राः ।। (२-६)
यद्वा जयेम यदि वा नो जयेयुः ।
यानेव हत्वा न जिजीविषामः
तेऽवस्थिताः(≍) प्रमुखे धार्तराष्ट्राः ।। (२-६)
कार्पण्यदोषोपहतस्वभावः
पृच्छामि त्वां(न्) धर्मसंमूढचेताः ।
यच्छ्रेयः(स्) स्यान्निश्चितं ब्रूहि तन्मे
शिष्यस्तेऽहं शाधि मां(न्) त्वां प्रपन्नम्।। (२-७)
पृच्छामि त्वां(न्) धर्मसंमूढचेताः ।
यच्छ्रेयः(स्) स्यान्निश्चितं ब्रूहि तन्मे
शिष्यस्तेऽहं शाधि मां(न्) त्वां प्रपन्नम्।। (२-७)
द्वितीयोऽध्यायः ८-१२
न हि प्रपश्यामि ममापनुद्यात्
यच्छोकमुच्छोषणमिन्द्रियाणाम् ।
अवाप्य भूमावसपत्नमृद्धम्
राज्यं सुराणामपि चाधिपत्यम् ।। (२-८)
यच्छोकमुच्छोषणमिन्द्रियाणाम् ।
अवाप्य भूमावसपत्नमृद्धम्
राज्यं सुराणामपि चाधिपत्यम् ।। (२-८)
सञ्जय उवाच
एवमुक्त्वा हृषीकेशं(म्), गुडाकेशः(≍) परन्तप।
न योत्स्य इति गोविन्दम्, उक्त्वा तूष्णीं बभूव ह।। (२-९)
न योत्स्य इति गोविन्दम्, उक्त्वा तूष्णीं बभूव ह।। (२-९)
तमुवाच हृषीकेशः, प्रहसन्निव भारत।
सेनयोरुभयोर्मध्ये, विषीदन्तमिदं(वँ) वचः।। (२-१०)
सेनयोरुभयोर्मध्ये, विषीदन्तमिदं(वँ) वचः।। (२-१०)
श्रीभगवानुवाच
अशोच्यानन्वशोचस्त्वं(म्), प्रज्ञावादांश्च भाषसे।
गतासूनगतासूंश्च, नानुशोचन्ति पण्डिताः।। (२-११)
गतासूनगतासूंश्च, नानुशोचन्ति पण्डिताः।। (२-११)
न त्वेवाहं(ञ्) जातु नासं(म्), न त्वं(न्) नेमे जनाधिपाः ।
न चैव न भविष्यामः, सर्वे वयमतः(≍) परम् ।। (२-१२)
न चैव न भविष्यामः, सर्वे वयमतः(≍) परम् ।। (२-१२)
द्वितीयोऽध्यायः १३-१५
देहिनोऽस्मिन्यथा देहे कौमारं(य्ँ) यौवनं जरा।
तथा देहान्तरप्राप्तिर्(:) धीरस्तत्र न मुह्यति।। (२.१३)
तथा देहान्तरप्राप्तिर्(:) धीरस्तत्र न मुह्यति।। (२.१३)
मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुः(≍)खदाः।
आगमापायिनोऽनित्यास्(:) तांस्तितिक्षस्व भारत।। (२-१४)
आगमापायिनोऽनित्यास्(:) तांस्तितिक्षस्व भारत।। (२-१४)
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ।
समदुःखसुखं धीरं(म्) सोऽमृतत्वाय कल्पते।। (२-१५)
समदुःखसुखं धीरं(म्) सोऽमृतत्वाय कल्पते।। (२-१५)
द्वितीयोऽध्यायः १६-२०
नासतो विद्यते भावो(:) नाभावो विद्यते सतः।
उभयोरपि दृष्टोऽन्तस्(:) त्वनयोस्तत्त्वदर्शिभिः।। (२.१६)
उभयोरपि दृष्टोऽन्तस्(:) त्वनयोस्तत्त्वदर्शिभिः।। (२.१६)
अविनाशि तु तद्विद्धि येन सर्वमिदं(न्) ततम्।
विनाशमव्ययस्यास्य न कश्चित् कर्तुमर्हति।। (२-१७)
विनाशमव्ययस्यास्य न कश्चित् कर्तुमर्हति।। (२-१७)
अन्तवन्त इमे देहा(:) नित्यस्योक्ताः(श्) शरीरिणः।
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत।। (२-१८)
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत।। (२-१८)
य एनं(व्ँ) वेत्ति हन्तारं(म्) यश्चैनं मन्यते हतम् ।
उभौ तौ न विजानीतो(:) नायं हन्ति न हन्यते।। (२-१९)
उभौ तौ न विजानीतो(:) नायं हन्ति न हन्यते।। (२-१९)
न जायते म्रियते वा कदाचित्
नायं भूत्वा भविता वा न भूयः।
अजो नित्यः(श्) शाश्वतोऽयं पुराणो
न हन्यते हन्यमाने शरीरे ।। (२-२०)
नायं भूत्वा भविता वा न भूयः।
अजो नित्यः(श्) शाश्वतोऽयं पुराणो
न हन्यते हन्यमाने शरीरे ।। (२-२०)
द्वितीयोऽध्यायः २१-२४
वेदाविनाशिनं(न्) नित्यं य एनमजमव्ययम्।
कथं स पुरुषः(≍) पार्थ कं(ङ्) घातयति हन्ति कम्।। (२-२१)
कथं स पुरुषः(≍) पार्थ कं(ङ्) घातयति हन्ति कम्।। (२-२१)
वासांसि जीर्णानि यथा विहाय
नवानि गृह्णाति नरोऽपराणि।
तथा शरीराणि विहाय जीर्णानि
अन्यानि सं(य्ँ)याति नवानि देही।। (२-२२)
नवानि गृह्णाति नरोऽपराणि।
तथा शरीराणि विहाय जीर्णानि
अन्यानि सं(य्ँ)याति नवानि देही।। (२-२२)
नैनं(ञ्) छिन्दन्ति शस्त्राणि नैनं(न्) दहति पावकः।
न चैनं(ङ्) क्लेदयन्त्यापो(:) न शोषयति मारुतः।। (२-२३)
न चैनं(ङ्) क्लेदयन्त्यापो(:) न शोषयति मारुतः।। (२-२३)
अच्छेद्योऽयमदाह्योऽयम् अक्लेद्योऽशोष्य एव च।
नित्यः(स्) सर्वगतः(स्) स्थाणुर्(:) अचलोऽयं सनातनः।। (२-२४)
नित्यः(स्) सर्वगतः(स्) स्थाणुर्(:) अचलोऽयं सनातनः।। (२-२४)